हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Balakanda Sarga 44 – बालकाण्ड चतुश्चत्वारिंशः सर्गः (४४)
॥ सागरोद्धारः ॥
स गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १ ॥
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ २ ॥
तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ ३ ॥
सागरस्य जलं लोके यावत् स्थास्यति पार्थिव ।
सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत् ॥ ४ ॥
इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥ ५ ॥
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।
[* त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता । *]
पितामहानां सर्वेषां त्वमेव मनुजाधिप ॥ ६ ॥
कुरुष्व सलिलं राजन्प्रतिज्ञामपवर्जय ।
पूर्वकेण हि ते राजंस्तेनातियशसा तदा ॥ ७ ॥
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ।
तथैवांशुमता तात लोकेऽप्रतिमतेजसा ॥ ८ ॥
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ।
राजर्षिणा गुणवता महर्षिसमतेजसा ॥ ९ ॥
मत्तुल्यतपसा चैव क्षत्रधर्मे स्थितेन च ।
दिलीपेन महाभाग तव पित्रातितेजसा ॥ १० ॥
पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयताऽनघ ।
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ॥ ११ ॥
प्राप्तोऽसि परमं लोके यशः परमसंमतम् ।
यच्च गङ्गावतरणं त्वया कृतमरिन्दम ॥ १२ ॥
अनेन च भवान्प्राप्तो धर्मस्यायतनं महत् ।
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ॥ १३ ॥
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ।
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ॥ १४ ॥
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ।
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ॥ १५ ॥
यथाऽऽगतं तथागच्छद्देवलोकं महायशाः ।
भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ॥ १६ ॥
यथाक्रमं यथान्यायं सागराणां महायशाः ।
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ॥ १७ ॥
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ।
प्रमुमोद च लोकस्तं नृपमासाद्य राघव ॥ १८ ॥
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ।
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ॥ १९ ॥
स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते ।
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमतीव च ॥ २० ॥
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ।
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ॥ २१ ॥
इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ।
यः शृणोति च काकुत्स्थ सर्वान्कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
www.sanatanadharm.com